മുല്ലപ്പെരിയാറില്‍ പുതിയ ഡാം നിര്‍മ്മിക്കാം – ജിയോളജിക്കല്‍ സര്‍വ്വേ ഓഫ് ഇന്ത്യ

Monday 26 December 2016

नववैद्या: एव भारतनिर्मातार: - श्री प्रणवमुखर्जी।
जवहार्नगरम् >नववैद्या: भारतनिर्मातार: भवितव्यः इति भारतराष्ट्रपतिना श्री प्रणवमुखर्जी महोदयेन उक्तम्। हैदरबाद् सैनिक-दन्तवैद्यकलाशालाया: स्नातकोत्सव महोत्सवे भागं गृहीत्वा उत्तम-छात्राणां पुरस्कारप्रदानं कृत्वा भाषमाणः आसीत् सः। वैद्यकलाशालाया: एकादशीय स्नातकोत्सव महोत्सवः आसीदयम् । अस्मिन् अवसरे भाषणं दत्तवान् यत् वैद्यछात्रा: भारतनिर्मातार: भवन्ति। तेषां ज्ञानं समाजकल्याणाय भवतु , नववैद्यैः वैद्यसेवाः मानुषत्वेन करणीयाः इति च तेन महामहिमवर्येण उक्तम् । अष्टसहस्र नगरीयजनानां एक: दन्तवैद्य:, एवमेव पञ्चसहस्र ग्राम्यजनानां एक: दन्तवैद्य: एव अस्ति। अत: नववैद्या: प्रतिग्रामं गत्वा दन्तवैद्य-शिबिरा: स्थापनीया: इति तेन वैद्याः उपदिष्टाः। अस्मिन् स्नातकोत्सवे राज्यपाल: श्री नरसिंहन् , तेलंगाना उपमुख्यमन्त्री महम्मद् अलि, कालोजी आरोग्यविश्वविद्यालयस्य उपकुलपति: करुणाकररेड्डि: अन्ये कलाशालाध्यापकाध्यापिकाश्च भागं गृहीतवन्त:।